||Sundarakanda ||

|| Sarga 43||( Only Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकांड.
अथ त्रिचत्वारिंशस्सर्गः

ततः स किंकरान् हत्वा हनुमाध्यानमास्थितः।
वनं भग्नं मया चैत्यप्रासादो न विनाशितः॥1||

तस्मात् प्रासादमप्येनं भीमं विध्वंशयाम्यहम्।
इति संचित्य मनसा हनुमान् दर्शयन् बलम्॥2||

चैत्यप्रासादमाप्लुत्य मेरुशृंग मिवोन्नतम्।
आरुरोह कपिश्रेष्ठो हन्नुमान् मारुतात्मजः॥3||

आरुह्य गिरिसंकाशं प्रासादं हरियूथपः।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः॥4||

संप्रधृष्य च दुर्धरं चैत्यप्रासादमुत्तमम्।
हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमा भवेत्॥5||

स भूत्वा सु महाकायः प्रभवान् मारुतात्मजः।
धृष्टमास्फोटयामास लंकां शब्देन पूरयन्॥6||

तस्यास्फोटित शब्देन महता श्रोतघातिना।
पेतुर्विहंगमास्तत्र चैत्यपालाश्च मोहिताः॥7||

अस्त्र विज्जयतां रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाधिपालितः॥8||

दासोsहं कोसलेंद्रस्य रामस्य क्लिष्टकर्मणः।
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः॥9||

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥10||

अर्थयित्वा पुरीं लंकां अभिवाद्य च मैथिलीम्।
समृद्धार्थो गमिष्यामि मिषतां सर्व रक्षसाम्॥11||

एवमुक्ता विमानस्थः चैत्यस्थान् हरियूथपः।
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम्॥12||

तेन शब्देन महता चैत्यपालाः शतं युयुः।
गृहीत्वा विविधान् अस्त्रान् प्रासान्खड्गान्परश्वथान्॥13||

विसृजंतो महाकाया मारुतिं पर्यवारयन्।
ते गदाभिर्विचित्राभिः परिघैः कांचनांगदैः॥14||

अजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः।
आवर्त इव गंगायाः तोयस्य विपुलो महान्॥15||

परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः।
ततो वातात्मजः क्रुद्धो भीमं रूपं समास्थितः॥16||

प्रासादस्य महान्तस्य स्तंभं हेमपरिष्कृतम्।
उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः॥17||

ततः तं भ्रामयामास शतधारं महाबलः।
तत्र चाग्निस्समभवत् प्रासादश्चाप्यदह्यत॥18||

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः।
स राक्षसशतं हत्वा वज्रेणेंद्र इवासुरान्॥19||

अंतरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत्।
मादृशानां सहस्राणि विसृष्टानि महात्मनाम्॥20||

बलिनां वानरेंद्राणां सुग्रीववशवर्तिनाम्।
अटंति वसुधां कृत्स्नां वयमन्ये च वानराः॥21||

दशनागबलाः केचित् केचित् दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुः तुल्यविक्रमाः॥22||

संति चौघबलाः केचित् केचिद्वायुबलोपमाः।
अप्रमेय बलाश्चान्ये तत्रासन् हरियूधपाः॥23||

ईदृग्विधैस्तु हरिभिर्वृतो दंतानखायुधैः।
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि॥24||

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः।
नेयमस्ति पुरी लंका न यूयं न च रावणः।
यस्मादिक्ष्वाकु नाथेन बद्धं वैरं महात्मना॥25||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे त्रिचत्वारिंशस्सर्गः ॥

 

॥ Om tat sat ||